________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
द्विगुणा वा चतुःषष्टिस्तद्दानगुणवेदिनः ॥ धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं बधः । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तडूनम् ॥ सुवर्णरजतादीनामुत्तमानाञ्च वाससाम् । tarai चैव सर्वेषां शतादप्यधिकं बधः ॥ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषेष्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ पुरुषाणां कुलीनानां नारीणाञ्च विशेषतः ।
रत्नानाञ्चैव मुख्यानां हरणे बधमर्हति ” – इति । यस्मिन्नपहारे योदण्ड उक्तः, स शूद्रकर्तृकेऽष्टगुणः, वैश्यकर्तृके षोड़शगुणः चत्रियकर्तृके द्वात्रिंशद्गुणः, ब्राह्मणकर्ट के चतुःषष्ठिगुणः शतगुणो वा श्रष्टाविंशत्युत्तरशतगुणो वा । शेषेषु स्वल्पमूल्येषु मूल्यादेकादशगुणं दण्डं कल्पयेत् । चुद्रद्रव्यानां माषात् न्यूनमूल्यानां मूल्यात् पञ्चगुणो दण्डः । तथाच नारदः, -
"काष्ठभाण्डवादीनां मृन्मयानां तथैवच 1 वेणवेण्वभाण्डानां तथा स्नाय्वस्थिचर्मणाम् || शाकानामार्द्रमूलानां हरणे फलमूलयोः । गोरमेक्षुविकाराणां तथा लवणतेलयोः ॥
For Private And Personal Use Only
"
पक्कान्नानां कृतान्नानां मत्स्यानामामिषस्य च । मर्वेषामेव मूलानां मूल्यात्पञ्चगुणो दमः” - इति । यत्पुनर्मनुनोक्रम्, -
“सूत्रकार्पासकिएखानां गोमयस्य गुड़स्य च ।
३०३