________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[६०।
क्वचिन्न । तत्र धनिकाधनिकपुरुषविषयत्वेन व्यवस्था द्रष्टव्या । एतेनैव न्यायेन व्यवस्थितविकल्पमभिप्रेत्य याज्ञवल्क्येन, ब्रह्महत्याव्रतं वाऽपि'--. इत्युक्रम् । वैश्यशूद्रयोरपि उत्तममध्यमाधमभेदेन प्रायश्चित्तव्यवस्था योजनौया । यथा इन्तव्यभेदेन प्रायश्चित्ततारतम्यमुक्त, तथा इन्तभेदेऽप्यवगन्तव्यम् । अतएव विष्णः,
“विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् ।
वैश्येऽर्द्धं पादमेकन्त शूद्रजातिषु शस्यते"-दति ॥ देवलोऽपि,
“विप्रार्द्धं क्षत्रिये प्रोत्रं तदर्दू वैश्यजातिषु ।
तदर्द्धमेव शूद्राणां प्रायश्चित्तं विदुर्बुधाः'-दति ॥ एतच्चाकामकृते द्रष्टव्यं, विष्णुप्रोकात् न्यूनत्वात् । नवाचार्येण स्त्रीवधे प्राजापत्यदयं वृषभैकादशगोदानसहितं प्रायश्चित्तमुक्रम् । तदयुक्रम् । स्मृत्यन्तरेषु न्यूनाधिकप्रायश्चित्तयोर्दर्शनात् । तत्र मनुः न्यूनं दर्शयति,
"जीन कार्मुकवस्तादौन् दद्यादघविशुद्धये ।
चतुर्णमपि वर्णानां नारीहत्वाऽनवस्थिताः" इति ॥ जीनं चर्ममयमुदकपात्रं, अनवस्थिताः स्वैरिण्यः । याज्ञवरक्योऽपि,
__ “दुईत्ता ब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु ॥ * विप्राई क्षत्रियस्य स्याद्देश्यानाक्षेतदई कम्,-इति मु. ।
जाल, इति शा० | एवं परत्र । | एथग्दशादिशुइये,-इति मु० ।
For Private And Personal Use Only