SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६8 परापारमाधवः । जात्याक्रोशः । क्रूरचित्ता वैश्वामित्रा इति कुलाकोशः । आक्रोशउच्चैर्भाषणं, न्यकामवद्यं, तदुभययुक्तं यदुद्वेगजननार्थं वाक्यं, तद्वाक्पारुष्यमित्यर्थः । तस्य चैविध्यमाह मएव, "निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् । साक्षेपं निष्ठुरं ज्ञेयमलौलं न्यङ्कसंयुतम् ॥ पतनीयै रुपक्रोशेस्तोत्रमाहुर्मनीषिणः” इति । कात्यायनोऽपि, “यस्त्वसत्संज्ञितैरकैः परस्याक्षिपति क्वचित् । अमूलैर्वाऽथ मूलैर्वा निष्ठुरा वाक् स्मता बुधैः ॥ न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा । वृत्तैर्देशकुलानां वाऽप्यस्लौला मा बुधैः स्मृता ॥ महापातकयोत्रौ च रागद्वेषकरौ च या। जातिभ्रंशकरौ वाऽथ तौबा सा प्रथिता तु वाक्” इति ।। प्रथममध्यमोत्तमभेदेन चैविध्यमाह बृहस्पतिः, “देशग्रामकुलादीनां क्षेपः पापेन योजनम् । दष्टं विना तु प्रथमं वाक्पारुण्यं तदुच्यते ॥ भगिनीमासम्बन्धमुपपातकशंसनम् । पारुण्यं मध्यम प्रोक्र वाचिकं शास्त्रवेदिभिः ।। अभक्ष्यापेयकथनं महापातकदूषणम् ! पारुय्यमुत्तमं प्रोक्तं तौवं मर्माभिघट्ट नम्'-दति । * यत्तदीये,-इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy