________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् ।
द्राचाऽविमुक्तादयः । प्रतानाः काण्डप्ररोहर हिताः । श्रोषध्यः फलपाकान्ताः शास्लिप्रस्टतयः । वीरुधोगुडुचीप्रभृतयः । एतेषु स्थानेषु विकर्त्तने पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः । कुण्ड्यादिधाते* ग्टहे कष्टकादिप्रक्षेपणे च दण्डमाह याज्ञवल्क्य:
*
“श्रभिघाते तथा भेदे केदे कुएड्यावपातने । पणान् दाप्यः पञ्चदश विंशतिं तहूयं तथा ॥ दुःखोत्पादि गृहे द्रव्यं चिपन् प्राणहरन्तथा ।
षोड़शाद्यः पणं दाप्यो द्वितीयो मध्यसाहसम्” – इति । मुद्गरादिना कुद्यस्याभिघाते, विदारणे, द्वैधीकरणे, यथाक्रमं पञ्चपण दशपणो विंशतिपणश्च दण्डः । श्रवपातने पुनस्त्रयो दण्डाः समुच्चिताः, कुसम्पादनार्थं धनमपि देयम् । परग्टहे कष्टकादिप्रक्षेपणे षोड़शपणो दण्डः । विषभुजङ्गादिप्रक्षेपणे मध्यमसाहमोदण्ड इत्यर्थः ।
इति दण्डपारुय्यम् ।
अथ वाक्पारुष्यम् ।
तस्य लक्षणं नारदेनोक्तम्, -
Acharya Shri Kailassagarsuri Gyanmandir
२६३
“देशजातिकुलादीनामाक्रोशन्यङ्कसंयुतम् ।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते” – इति । कलहप्रिया गौड़ा इति देशाक्रोशः । श्रतिलोलुपा ब्रह्मण इति
कुष्याभिघाते, — इति का० ।
---
For Private And Personal Use Only