________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२६५
निष्ठुराकोशे दण्डमाह याज्ञवल्क्यः,
"सत्यासत्यान्यथास्तोत्रैन्यूंनाङ्गेन्द्रियरोगिणाम् ।
क्षेपङ्करोति चेद्दण्ड्यः पणान त्रयोदश” इति । सत्येनासत्येनान्यथास्तोत्रेण(१) न्यूनाङ्गादौनां तर्जनीतर्जनं यः करोति, असावधिकद्वादशपणं दण्डनीयः । एतत्समवर्णगुण विषयम् । तथाच वृहस्पतिः,
"समजातिगुणानान्तु वाक्पारथ्ये परस्परम् । विनयोऽभिहितः शास्त्रे पणान त्रयोदश"-दति । यत्तु मनुवचनम्,--
"काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डः कार्षापणावरम्” इति । तदपि दुर्वृत्तविषयम् । मात्राद्याक्षेपकं प्रत्याह मनुः,
"मातरं पितरं जायां भ्रातरं श्वशारं गुरुम् ।
श्राचारयञ्छतं दाप्यः पन्थानं वाऽददगुरोः"-दति । एतच्चापराधिषु मात्रादिषु जायायां वा निरपराधायां वेदितव्यम् । स्वस्राद्याक्षेपे दण्डमाह सहस्पतिः,
"क्षिपन खस्रादिकं दद्यात् पञ्चाशत्पणिक दमम्” इति । प्रातिलोम्यानुलोम्याभ्यामाकोशे दण्डमाह मनुः,
"शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।
(१) सत्येन यथा नेत्रशून्ये नेत्रशून्य त्वमसौति । असत्येन यथा. नेत्रबन्तं
प्रति नेत्र शून्यस्त्वमसीति । अन्ध थाम्तोत्रेण य था, अन्धं प्रति चदंमान तिा येनासीति ।
For Private And Personal Use Only