________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
मएव । “मर्वे च पुरुषपौडाकराः समुत्थानव्ययं दाण्या ग्राम्यपशुपौड़ाकराच” इति । प्राणिघातनिमित्तकोदण्डः क्वचिदशक्यप्रतिकारविषये नास्तोत्याह मनुः,
“छिन्ने नष्टे युगे भने तिर्यक् प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैवच ॥ भेदने चैव यन्त्राणां योक्करम्मयोस्तथैवच ।
आक्रन्दे चाप्यपैहौति न दण्डं मनुरब्रवीत्” इति ॥ शक्यप्रतिकारोपेक्षकस्य दण्डमाह सएव,
“यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु ।
तत्र स्वामी भवेद्दण्द्यो हिमायां दिशतं दमम्” इति । प्राजकः शकटादिनेता। वैगुण्यं नाम वैकल्यं वेतनलाघवार्थ खाम्यनुमतम् । यत्र समर्थप्राजकदोषेण प्राणिहिंसा, तत्र न स्वामिनोदण्डः, किन्तु प्राजकस्येत्याह मएव,
_ "प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति" इति। श्राप्तः समर्थ इत्यर्थः । पश्वभिद्रोहे दण्डमाह याज्ञवल्क्यः,
"दुखे च शोणितोत्याते शाखाऽङ्गछेदने तथा । दण्डः क्षुद्रपशूनां तु दिपणप्रभृतिः क्रमात् ।। लिङ्गस्य केदने मृत्यौ मध्यमो मूल्यमेवच ।
महापशनामेतेषु स्थानेषु दिगुणोदमः"-दति । क्षुद्रपशनामजाविप्रमतीनां दुःखोत्पादने गोणितोत्पादने । शाखाशब्देन ग्टङ्गादिकं लक्ष्यते। अङ्गानि करचरणदौनि। तेषां कैद वा यथाक्रमं द्विपण प्रमतिर्दण्डः। द्विपणचतुष्पणषट्पणा
For Private And Personal Use Only