SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २८ २८९ अवमूत्रयतोमेढ़ पुरोषकरणे गुदम् ॥ केशेषु ग्रसतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायाञ्च ग्रीवायां वृषणेषु च ॥ महासनमभिप्रेमुरुत्कष्टस्यापकृष्टजः । कठ्यां कताको निर्वास्यः स्फिचौ वाऽस्य निकन्तयेत्” इति। अङ्गच्छेदनादौ विशेषमाह कात्यायनः, “देहेन्द्रियविनाशे तु यदा दण्डं प्रकल्पयेत् । तदा तुष्टिकरं देयं समुत्थानश्च पण्डितैः” इति ॥ दृष्टिकरं प्रणतष्टिकरम्। समुत्थानं व्रणरोपणम् । तबिमितकश्च व्ययो व्रणगुरुत्वानुसारेण पण्डितैरौषधार्थं व्ययार्थं च कल्पितमानं व्रणारोपणं देयम् । _ "समुत्थानं व्ययं चासो दद्यादाव्रणरोपणम्” इति तेनैवोक्तत्वात् । वृहस्पतिरपि, "अङ्गावपौडने चैव छेदने भेदने तथा । समुत्थानव्ययं दाप्यः कलहापहतञ्च यत्" इति ॥ याज्ञवल्क्योऽपि, “कलहापहतं देयं दण्डश्च द्विगुणस्तथा । दुःखमुत्पादयेद्यस्तु स समुत्थानकं व्ययम् ॥ दाण्योदण्डच्च यो यस्मिन् कलहे समुदाहृतः” इति । ग्राम्यपश्रुपौड़ायां दण्डमाह विष्णुः । “ग्राम्यपशुधाते कार्षापणं दण्ड्यः। पशुखामिने तु तन्मल्यं दद्यात्” इति। मूल्य दानन्तु मृतपशुविषयम् । मरणाभावे तु समुत्थानव्ययं दद्यात् । तथाच For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy