________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२६१
टपण इत्यादिरूपः । तेषां लिङ्गछेदने मृत्युकरणे वा मध्यमसाहसोदण्डः, मूल्यदानं च । महापशूनां गोगजवा जिप्रभृतौनामेतेष स्थानेषु पूर्वीकाद्दण्डाद् द्विगुणदण्डो वेदितव्य इत्यर्थः । कार्षापणमतदण्ड इत्यनुवृतौ विष्णुरपि । “पशूनां पुंस्त्वोपघातकारी तथा गजाश्वोष्ट्रगोघातेप्येऽकएवार्थ: । मांसविक्रयौ च ग्राम्यपशुधातौ च कार्षापणम्" इति। कात्यायनोऽपि,
"दिपणो दादशपणो बधे तु मृगपक्षिणाम् ।
मर्पमार्जारनकुलश्वस्करबधे नृणाम्" इति । मनुरपि,
"गोकुमारौदेवपशूनुक्षाणं वृषभं तथा । वाहयन् साहसं पूर्व प्राप्नुयादत्तमं बधे । मनुय्यमारणे क्षिप्रं चोरवत्किल्विषं भवेत् । प्राणभृत्यु महत्पूर्वं गोगजोष्ट्रयादिषु ॥ क्षुद्रकाणां पशूनाञ्च हिंमतो दशतोदमः । पञ्चाशत्तु भवेद्दगडः शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानाञ्च दण्डः स्यात् पञ्चमाषकः ।
माषकस्तु भवेद्दण्डः श्वसूकर निपातने"-दति । राज्ञो दण्डदानवत्वामिनः प्रतिरूपकं मूल्यं वा दद्यादित्याह कात्यायनः,
"प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्यादित्य नवोन्मनुः"-दति । स्थावर प्राणिपौडाकारिणां दण्डमा ह मनुः,
For Private And Personal Use Only