SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् । त्वगादिभेदे दण्डमाह मनुः, - Acharya Shri Kailassagarsuri Gyanmandir "वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । २८७ मांसच्छेदे शतं निष्कान् * प्रवास्यस्त्वस्थिभेदकः " - इति ॥ पादाद्याकर्षणादौ याज्ञवल्क्यः,— "पादकेशादिषु कराकर्षले तु पणान् दश । पिण्डाकर्षांकावेष्टपादाभ्यासे शतं दमः ॥ करपाददन्तभङ्गे छेदने कर्णनासयोः । मध्योदण्डो व्रणोद्भेदे मृतकल्पहते तथा || चेष्टा भोजनवाक्रोधे नेत्रादिप्रतिभेदने । ग्रीवादिणभङ्गे च दण्डोमध्यमसाहसः ॥ एकं नतां बहनाञ्च यथोद्विगुणोदमः " - इति ॥ श्रवमत्य केशं गृहीत्वा योझटित्याकर्षति, सौ दशपणं दण्ड्यः स्यात् । यः पुनरंशुकेनावेच्य गाढ़मापौद्याय्य पादेन घटयति, असौ शतपणान् दण्ड्यः । करपाददन्तानां प्रत्येकम्भङ्गे कर्णनासिकयोश्च छेदने मृतकल्पहते च मध्यमसाहसो दण्डः । गमनभोजनभाषणनिरोधे नेत्रप्रतिभेदने ग्रौवाहस्तव्रणभङ्गे मध्यमसाहस्रोदण्डः । मिलित्वेकस्याङ्गभङ्गं कुर्वतां बहूनां एकस्यापराधे यो दण्डउक्तः, तत्र तस्मात् द्विगुणोदण्डः प्रत्येकं वेदितव्य इत्यर्थः । कात्यायनोऽपि - For Private And Personal Use Only “कर्णोष्ठघ्राणपादादिजिहानामाकरस्य च । * मांसभेदे शतं निष्कान्, - इति का० । मांसभेत्ता तु वसिष्कान्, - इति ग्रन्थान्तरष्टतः पाठः ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy