________________
Shri Mahavir Jain Aradhana Kendra
86
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
एवमेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्यं दद्यादेकशतं गवाम्" - इति ।
याज्ञवल्कयेनापि -
“वृषभैकमहस्रा गा दद्यात् क्षत्रबधे पुमान् । ब्रह्महत्याव्रतं वाऽपि वत्मरत्रितयं चरेत् ॥
वैश्याऽब्दं चरेच्चैव दद्यादेकशतङ्गवाम् ।
षण्मासान् शूद्रहाऽप्येतद्धेनूर्दद्याद्दशाथ वा " - इति ॥ वार्षिकादप्यधिकं गौतमश्राह । “राजन्यबधे षडार्षिकं प्राकृतं ब्रह्मचर्यं वृषभैकरुहस्राश्च गा दद्यात् । वैश्ये चैवार्षिकं वृषभेकशताश्च गा दद्यात् । शृद्रे संवत्सरं वृषभेकादशाश्च गा दद्यात् । श्रात्रेयौ - चैवम्”–इति । शङ्खलिखितावपि । “पूर्व्ववदमतिपूब्बें त्रिषु वर्णेषु प्रमाप्य द्वादशनवषट्संवत्सरान् व्रतान्यादिशेत् । तेषामन्ते गोमहस्रं ततोऽर्द्धं तस्यार्द्धं दद्यात् सर्व्वेषामानुपूर्व्येण" इति । शातातपोऽपि -
"राजन्यवेश्यशूद्राणां षट् चौनेकं चरेत् बधे । वर्षाणि ब्रह्मचर्य्यन्तु त्रिर्थं क्रमेण तु ॥ गोदानन्तु व्रतस्यान्ते ब्राह्मणानाञ्च भोजनम् । कार्य्यं सदक्षिणं सम्यक् विशुद्ध्येत यथाविधि" । हारीतोऽपि -
"ब्राह्मण: चत्रियं हत्वा षड्वर्षाणि ब्रतं चरेत् ।
• एतदेव चरेदर्द्ध, — इति मु० ।
1 चरेदेतत् दद्याद्दैकशतं गवाम्, इति मु० ।
[६ ० ।
For Private And Personal Use Only