________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः ।
"ग्रहं तटाकमारामं क्षेत्र वा भौषया हरन् ।
शतानि पञ्च दण्ड्यः स्यादज्ञानाद् द्विशतं दमः" इति । घे तु बलादपहियमाणक्षेत्रादिभ्रमयस्तेषां उत्तमोदण्डः प्रयोकव्यः ।
"बलात्सर्वस्वहरणं पुरानिर्वासनाङ्कने ।
तदङ्गच्छेददत्येको दण्ड उत्तममाहम:'-दति स्मरणात् । यत्तु शङ्खलिखिताभ्यां सौमाऽतिक्रमणे दण्डाधिक्यमुक्तम् । “मौमाव्यतिक्रमे त्वष्टमहस्रम्" इति । तत्समग्रसीमाऽतिक्रमविषयम् । सौमासन्धिषत्पन्नक्षादिविषये कात्यायनः,
“सौमामध्ये तु जातानां वृक्षाणां क्षेत्रयोईयोः ।
फलं पुष्पञ्च सामान्य क्षेत्रस्वामिषु निर्दिशेत्" इति । अन्यक्षेत्रे जातक्षादिविषये सएव,
“अन्यक्षेत्रे तु जातानां शाखा यत्रान्यमंस्थिता ।
खामिनन्तु विजानीयात् यस्य क्षेत्रे तु संस्थिता"-दति । परक्षेत्रे प्रार्थनया क्रियमाणसेतु कूपादिकं क्षेत्रस्वामिना न निषेद्धव्यम् । तदाह याज्ञवल्क्यः,
"न निषेध्योऽल्पबाधस्तु सेतु: कल्याणकारकः ।
परभूमौ हरन् कूपः स्वल्पक्षेत्रो बहूदकः" इति । यत्वल्पबाधकं महोपकारक क्षेत्रादिकञ्च भवति. तत् क्षेत्र स्वामिना न निषेद्धव्यम् । यत्पुनर्बहुबाधकं स्वल्पोपकारकं च, तनिषेद्धव्यं भवति । नारदोऽपि,
“परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिबध्यते । महागणोऽन्य दोषशेत वृद्धिरिष्टा क्षये मनि"- इति ।
For Private And Personal Use Only