________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार काण्डम् ।
श्रज्ञानादनतवचने माझ्यादौन् दण्डयित्वा पुनर्विचारः प्रवर्त्त यितव्यः । तथाच कात्यायनः,--
"अज्ञानोकान्* दण्डयित्वा पुनः सौमां विचारयेत् । त्यत्वा दृष्टांस्तु सामन्तान् तस्मान्मौलादिभिः सह ।
समौक्ष्या कारयेत्मौमामेवं धर्मविदो विदुः” इति । नद्युत्सृष्टक्षेत्रविषये निर्णयमाह वृहस्पतिः,
"अन्यग्रामात्समाहत्या दत्ताऽन्यस्य यदा महौ। महानद्याऽथवा राज्ञा कथं तत्र विचारण ॥ नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा महौ। अन्यथा न भवेल्लाभो नराणां राजदैवकः । क्षयोदयौ जौवनञ्च देवराजवशान्नृणाम् । तस्मात्सर्वेषु कार्येषु तत्तं न विचालयेत् ॥ ग्रामयोरुभयोर्यत्र मर्यादा कल्पिता नदौ । कुरुते दानहरणं भाग्याभाग्यवशानृणाम् ॥ एकत्र कूलपातन्तु भूमेरन्यत्र संस्थितिम् ।
नदौतौरे प्रकुरुते तस्य तां न विचालयेत्” इति । एतदव्यप्तशस्यतौरविषयम् । उतशस्यविषये तु मएवाह,
"क्षेत्रणस्यं समुल्लङ्ग्य भूमिश्छिहा यदा भवेत् ।
* अज्ञानोतो,-इति का। + स तैश्च, इति शा। । समाइय,-इति शा० । । एतदनुप्त,-इति शा० । एवं परत्र । || समुत्सज्य,-इति प्रा ।
For Private And Personal Use Only