________________
Shri Mahavir Jain Aradhana Kendra
२७०
www. kobatirth.org
पराशर भाधनः ।
Acharya Shri Kailassagarsuri Gyanmandir
राजशासननीता च सौमा पञ्चविधा स्मृता ” - दूति ।
1
ध्वजिनी वृक्षादिलचिता । मत्स्थिनी जललिङ्गान्विता । नैधानी निखाततुषाङ्गारादिमतौ । भयवर्जिता श्रर्थिप्रत्यर्थिपरस्यर विषयापत्तिनिर्मिता । राजशासननौता ज्ञाटचिन्हाद्यभावे राजेच्छया निर्मिता । तथाच व्यासः, -
“ग्रामयोरुभयोः सौम्नि वृक्षा यत्र समुन्नताः । समुच्छ्रिता ध्वजाकारा ध्वजिनी सा प्रकीर्त्तिता ॥ स्वच्छन्दगा बहुजला मत्स्यकुसमन्विता । प्रत्यक् प्रवाहिनौ यत्र सा मौमा मत्स्यिनी मता ॥ तुषाङ्गारकपालैस्तु कुजेर रायतनैस्तथा ।
सीमात्र चिह्निता कार्य्या नैधानी मा निगद्यते " - इति । वृक्षाच न्यग्रोधादयः । तदाह मनुः, -
“सीमावृतांस्तु कुर्वीत न्यग्रोधाश्वत्थकिंसुकान् । शाल्मलीशालवृक्षांश्च चौरिणश्चैव पादपान् ” - इति ।
प्रत्यक् प्रवाहिनीत्यनेन वाप्यादीनि प्रकाशचिनान्युपलच्यन्ते । तानि च बृहस्पतिना दर्शितानि -
" वापीकूपतड़ागानि चेत्यारामसुरालयाः ।
स्थलनिम्ननदौस्रोतःशरगुल्मनगाढ्यः ॥
प्रकाशचिह्नान्येतानि सीमायां कारयेत् सदा " - दूति । तुषाङ्गारकपालैरिति करौषादीनां गुप्तलिङ्गानामप्युपलक्षणम् ।
तानि च तेनैव दर्शितानि -
“करौषास्थितुषाङ्गारशर्कराऽश्मक पालिका ।
For Private And Personal Use Only