________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
२६५
अत्रयोदशपणाः सार्द्धद्वादशकार्षापणाः। पालदोषमाह मनुः,
"अजाविके तु संरुद्धे कैः पाले बनायति।
यां प्रमह्य वृकोहन्यात्पाले तत्किल्विषं भवेत्”-दति । अनायति, उपद्रवनिराकरणाय अनागच्छतीत्यर्थः । यां, अजाविकजातीयाम् । एतत्मुगमस्थलस्थविषयम् । दुर्गमस्थल विषये न दोष इत्याह सएव,
“तामां चेदवरुद्धानां चरन्तीनां मिथोवने। यामुपेत्य वृकोहन्यान्न पालस्तत्र किल्विषो"-इति । अवरुद्धानां, पालकेन स्थापितानामित्यर्थः । दैवमतानां पुनः कर्णादिकं दर्शनीयम् । तथाच मनुः,
“कौँ चर्म च बालांश्च वस्त्यस्थिस्नायुरोचनम् । पशुस्वामिषु दद्यात्तु मृतेष्वङ्गाभिदर्शनम्" इति । स्मृत्यन्तरमपि,
"कौँ चर्म च बालांश्च श्टङ्गस्नाय्यस्थिरोचनम् । पशुस्वामिषु दद्यात्तु मृतेष्वङ्गानि दर्शयेत्”–दूति । गोप्रचारभूमिमाह याज्ञवल्क्यः,
"ग्रामेच्छया गोप्रचारी भूमौराजेच्छयाऽपिच” इति । ग्रामेच्छया ग्रामाल्पत्वमहत्त्वापेक्षया यदृच्छया वा गवां तृणादिभक्षणार्थं कियानपि भूभागः कृतः परिकल्पनीयः । गवां प्रचारस्थानासनसौकऱ्यार्थं ग्रामक्षेत्रयोरन्तरमाह सएव,
"धनुःशतं परीणाहो ग्रामक्षेत्रान्तरम्भवेत् । दे शते खवटे शस्यं नगरस्य चतुःशतम्" इति।
For Private And Personal Use Only