________________
Shri Mahavir Jain Aradhana Kendra
२६४
www. kobatirth.org
कृतः,
पराशर माधवः ।
"प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतन: " - दूति । प्रमादग्रहणं पालकदोषोपलचणार्थम् । प्रमादश्च मनुना स्पष्टी -
Acharya Shri Kailassagarsuri Gyanmandir
" नष्टं विनष्टं कृमिणा दंशितं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात् पालएव तु " -- इति । प्रसह्य चोरैरपहृतो न दाप्यः । तथाच सएव -
“विशिष्य तु हृतं चोरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंरुति" - इति । व्यासोऽपि -
" पालग्रहे ग्रामघाते तथा राष्ट्रस्य विप्लवे ।
यत्प्रष्टं हृतं वा स्यान्न पालेष्वच किल्विषम् " - इति । एतत्पुरुषकारकरणे वेदितव्यम् । पुरुषकाराकरणे तु भवत्येव किल्विषौ । पुरुषकारस्य स्वरूपं नारदेन दर्शितम्, - “क्वमिचोरव्यान्नभयात् दरौश्वभ्राच्च पालयेत् ।
व्यायच्छेच्छक्तितः क्रोशेत् स्वामिने तु निवेदयेत्” - इति । व्यायच्छेत्, प्रयतेतेत्यर्थः । यः प्रस्तुतार्थं न यतते, तं प्रत्याह
मएव, -
“श्रव्यायच्छन्नविक्रोशन् स्वामिने चानिवेदयन् । दातुमर्हति गोपस्तान् विनयञ्चैव राजनि” - इति ।
विनयप्रमाणमाह याज्ञवल्क्यः, -
"पालदोषविनाशे तु पाले दण्डो विधीयते । अर्द्धत्रयोदशपणाः स्वामिने द्रव्यमेवच " - इति ।
For Private And Personal Use Only