________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
पराशरमाधवः।
पळे क्रेटविक्रेत्रोः समयादृते प्रवृत्तौ वा न कशिदोषः। तथाच नारदः,
"दत्तमूस्यस्य पण्यस्य विधिरेष प्रकीर्तितः ।
श्रदत्तेऽन्यच समयान विक्रेतरतिक्रमः” इति । यत्र पुनर्वामात्रेण क्रयोमा भूदिति विक्रेटहस्ते क्रेत्रा यत्किञ्चिद्रव्यं दत्तम्, तत्र क्रेतुर्दोषवशेन क्रयासिद्धौ श्राह व्यासः,
“मत्यकारच(१) यो दत्वा यथाकालं न दृश्यते ।
पण्यमेव निसृष्टन्तद्दीयमानमग्रतः" इति । अत्र पस्यद्रयस्थोत्सर्गः मत्यकारद्रव्यस्योत्सर्गाऽभिमतः। अस्मिन्नेव विषये विक्रेटदोषवशेन क्रयामिद्धौ आह याज्ञवल्क्यः,
"सत्यंकारकतं द्रव्यं द्विगुणं प्रतिदापयेत्” इति । कौत्वाऽनुशयानुत्पत्त्यर्थं कतिपयपथानां विक्रयानहत्वमाह मनुः,
"नान्यदन्येन संसृष्टं रूपं विक्रयमर्हति । न सावद्यञ्च न न्यूनं न दूरे न तिरोहितम्, इति ।
इति क्रयविक्रयानुभयाख्यं विवादपदम् ।
अथ स्वामिपालविवादपदविधिः । तत्र तु तदभिधानप्रतिज्ञा मनुना कृता,
“पशषु खामिनाञ्चैव पालानाञ्च व्यतिक्रमे ।
(१) यत् क्रेतुकामेन क्रयपरिस्थितये विक्रेत्रे समर्पितं, तत्मत्यकार पदार्थः
इति चण्डेश्वरीया व्याख्या ।
For Private And Personal Use Only