________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२
पराशरमाधवः।
तदाज्ञाऽप्यनुमन्तव्यं निसृष्टार्था हि ते स्मृताः"--इति । निसृष्टार्थाः, अनुज्ञातका- इत्यर्थः । पाषण्ड्या दिसर्वसमूहेषु यथा राज्ञा वर्तितव्यं, तदाह नारदः,
“यो धर्मः कर्म यच्चैषामुपस्थानविधिश्च यः । यश्चैषां प्राप्नुयादर्थमनुमन्येत तत्तथा ॥ प्रतिकूलञ्च यट्राजः प्रकृत्यवमत च यत् । दोषवत् करणं यत्तु स्यादनानायकल्पितम् ॥
प्रवृत्तमपि तद्राजा श्रेयस्कामो निवर्तयेत्” इति । धर्माजटावत्त्वादि। कर्म प्राप्त पर्युषितभिक्षाटनादि । उपस्थानविधिः समूहकार्यार्थ पटहादिध्वनिमाकर्ण्य मण्डपादौ मेलनम् । वृत्युपादान(१) जौवनार्थं तापसवेषपरिग्रहः । राज्ञः प्रतिकूलमाधिकारिंशद्रकर्टकं चैवर्णिकविवादे धर्मविवेचनम् । तस्य च प्रतिकूलबमुकं स्मृत्यन्तरेण,
“यस्य राज्ञस्तु कुरुते शूद्रो धर्मविवेचनम् । तस्य प्रणश्यते राष्ट्र बलं कोषञ्च नश्यति" इति ।
* इत्यमेव पाठः सर्वत्र । मम तु, प्रातः, इति पाठः प्रतिभाति ।
(१) इयञ्च, यश्चैषां प्राप्नुयादमित्यस्य व्याख्या । एतद्याख्यादर्शनेन, यश्चैषां
प्रानयादर्थमित्यत्र, यच्चैषां रत्त्युपादानम्,-इति पाठः प्रतिभाति । विवादरत्नाकरे तथैव पाठोतोवर्तते । परमादर्शपुस्तकेषु दर्शनात् यश्चैषां प्राप्नयादर्थमित्यय मेव पाठो मूले रक्षितः । शा० का• पुस्तकयोस्तु, प्रत्युपादानं,--इति पाठो वर्तते ।
For Private And Personal Use Only