________________
Shri Mahavir Jain Aradhana Kendra
२४२
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
बधोऽत्र ताड़नादिः । परिभाषितका संपूत कर्त्तव्यमाह
नारदः,
" ग्टहीतशिल्पः समये कृत्वाऽऽचाय्र्यप्रदचिणम् ।
शक्तितश्चानुमान्यैनं श्रन्तेवासौ निवर्त्तते " - इति ।
भृतकानामपि भृतिकृतः कालकृतश्च विशेषो बृहस्पतिना दर्शितः, -
“यो भुङ्क्ते परदासौन्तु स ज्ञेयो बड़वाभृतः । कर्म तत्खामिनः कुर्य्यात् यथाऽनेन भृतो नरः ॥ बहुधाऽर्थभृतः प्रोक्तस्तथा भागभृतोऽपरः । होनमध्योत्तमत्व सर्वेषामेव चोदितम् || दिनमासार्द्धषण्मामचिमा माब्दभृतस्तथा ।
कर्म कुर्य्यात् प्रतिज्ञातं लभते परिभाषितम् ” – इति । अर्थभृतस्य बहुधात्वं समर्थाल्यमहत्वाभ्यां द्रष्टव्यम् । ते चाल्पत्व
महत्वे शक्त्यनुसारतो द्रष्टव्ये । तथाच नारदः, -
"भृत्यस्तु त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः ।
शक्तिभक्तानुसाराभ्यां तेषां कर्माश्रया मृतिः” – इति । भागभृतस्य द्वैविध्यमाह बृहस्पतिः, -
“दिप्रकारो भागभृतः कृपणो जीवितः स्मृतः । जातसस्यात्तथा चौराल्लभते तु न संशयः " - इति ।
अधिकर्मकृतस्तु स्वरूपमाह नारदः, -
“श्रर्थेष्वधिकृतो यः स्यात् कुटुम्बस्य तथोपरि । वोऽधिकर्मकृतोज्ञेयः स च कौटुम्बिकः स्मृतः” इति ।
For Private And Personal Use Only