________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाहम् ।
विष्णुरपि । “गोधोलूकचासकाकबधे त्रिरात्रमुपवसेत्”- इति। ईदृशानां सर्वेषां विसंवादिवचनानां साक्षाव्यवस्थापकं वचनान्तरं यत्र नस्लभ्यते,तत्र सर्वत्र विधीयमानप्रायश्चित्तानुसारेण संहतासंहतबुद्धिपूर्वकाबुद्धिपूर्वकाभ्यासानभ्यासापदनापदादिविषयत्वं कल्पनीयम् ।
भारण्यश्वादीनां हन्तुरुपवासत्रयपूर्वकं तिलप्रस्थदानमाह,हकजम्बूकक्षा तरक्षुश्वानघातकः । तिलप्रस्थं दिजे दद्यात् वायुभक्षो दिनत्रयम्॥११॥ इति॥
अत्रोपवासत्रयं विष्णु रप्याह । “श्वानं हत्वा त्रिरात्रमुपवसेत्” इति । पैठौनमिरत्र शूद्रहत्याव्रतमाह। “काकोलूककलासकंकबक मृगालभासवहिणमूषकचक्रवाकहंमप्रवोणिकनकुलमण्डूकविडालश्वबधे एतेपामेकैकस्मिन् शूद्रबधवद्विहितम्” इति। ननु, शूद्रहत्याव्रतं पाण्मासिकं, तात्यन्तगुरुत्वाकादिहत्यायामयुक्रम्। नायं दोषः । अस्य व्रतस्य चिरकालनैरन्तर्यविषयत्वेन नेतव्यत्वात् ।
गजादिबधे त्रिकालखानयुक्रमेकोपवासमाह,गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने । प्रायश्चित्तमहोराचं चिसन्ध्यमवगाहनम् ॥१२॥ इति । मनुस्त्वत्र दानविशेषमाह,
“वासोदद्याद्यं हत्वा पञ्च नौलान् वृषान् गजम् । अजमेषाननड्वाहं खरं हत्वैक हायनम्”- इति ।
* खरएक,-इति मु.।
For Private And Personal Use Only