________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
कम् । “श्वमार्जारनकुलमण्डूकमर्पाजगरमूषकान् हत्वा कृच्छं द्वादशरात्रं चरेत् किञ्चिद्दद्यात्" इति। तत्र सर्वत्र प्रायश्चित्तगौरवलाघवपालोचनया कामकताकामकृताभ्यासानभ्यासादिविषयत्वमूहनौयम् ।
शिशुमारादौन हत्वा दिनमेकं व्रतत्वेन वृन्ताकमात्र भक्षयेदित्याह,शिशुमारं तथा गोधां हत्वा कर्मञ्च शल्लकम्।। हुँन्ताकफलभक्षी वाऽप्यहोरात्रेण शुयति ॥१०॥ इति ॥
काश्यपस्तु लौहदण्डदानमप्याह । “ककलाससर्पनकुलगोधाशलकबधेऽहोरात्रोषितश्चान्ने लोहदण्डं दद्यात्" इति। मनुस्तु पक्षान्तराण्याह
"मार्जारनकुलौ हत्वा चासं मण्डूकमेव च । श्वगोधोलककाकांश्च शूट्रहत्यानतं चरेत् । पयः पिवेचिरात्रं वा योजनं वाऽध्वनोब्रजेत् ।
उपस्पृशेत् श्रवन्यां वा सूकं वा दैवतं जपेत्" इति । यमोऽपि । “श्वनकुलसर्पमार्जारमण्डूकविकिरकिकिदौविकगोधाग्टभोलूकवायसमयूरग्रामचटकसृगालमूषकान् हत्वा एकैकबधे एद्रबधः" इति । याज्ञवल्क्योऽपि,
"मार्जारगोधानकुलमण्डूकश्वपतत्रिणः ।
हत्वा व्यहं पिवेत् दौरं कृच्छं वा पादिकं चरेत्"-दति ॥ * सर्पहन्ता, -- इत्यारभ्य, एतदन्तो ग्रन्थो नास्ति वडीयपुस्तके प्रायः । शिक्षकस्थामे शल्यक,-इति मु. । एवं परत्र ।
For Private And Personal Use Only