________________
Shri Mahavir Jain Aradhana Kendra
२३२
www. kobatirth.org
पराशर माधवः ।
मुभयोरप्यसाध्यं चेदुभाभ्यामेवापरिममापितं तदा यो यावत्क करोति, तस्मै तत्कर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं, न पुन: ममम्। साध्ये उभाभ्यां कर्म्मणि परिममापिते तु यथाश्रुतं यथावत्परिभाषितं तावदुभाभ्यां देयम् । न पुनः प्रत्येकं कृनवेतनं देयं, नापि कर्मानुरूपं परिकल्प्य देयम् । भृत्यानां कर्तत्वमाह नारदः, -- "कर्मोपकरणं तेषां क्रियां प्रति यदाहितम् । आप्तभावेन तद्रक्ष्यं न चेयेन कदाचन" - इति ।
Acharya Shri Kailassagarsuri Gyanmandir
तेषां कर्मस्वामिनां कर्मेोपकरणं लाङ्गलादि क्रियां उद्दिश्य यस्मिन् कृत्ये निहितं, तेन सर्वदा निःशाद्येन रच्यमित्यर्थः । बृहस्पतिरपि -
"भृतस्तु न कुर्वीत स्वामिना शायमण्यपि । भृतिहानिं समाप्नोति ततो वादः प्रवर्त्तते " - दूति । यस्तु भृतिं स्वीकृत्य कर्म न करोति, तं प्रत्याह सएव - "गृहीतवेतनः कर्म न करोति यदा भृतः । समर्थश्चेमं दाप्यो द्विगुणं तच्च वेतनम् " - इति ।
श्रग्टहीतवेतनविषये याज्ञवल्क्य श्राह
“अग्टहोते समं दाप्यो भृत्यैरच्य उपस्करः”–इति ।
समं यावता वेतनेन भृत्यत्वमङ्गीकृतं तावदेव स्वामिने दद्यात्, न तु राज्ञे दण्डमित्यर्थः । यद्वा श्रचाङ्गीकृतवेतनं दत्वा बला
त्कारयितव्यः । तदाह नारदः, -
“कमकुर्वन् प्रतिश्रुत्य कार्यदत्वा मृतिं बलात् । भृतिं ग्टहीलाऽकुर्वाणः द्विगुणं भृतिमाप्नुयात्"-इति ।
For Private And Personal Use Only