________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
" दाप्यस्तु दशमं भागं वाणिज्यपशुशास्यतः । निश्चित्य मृतं यस्तु कारयेत्स महोचिता" - इति ।
यत्तु बृहस्पतिनोक्तम्, -
For Private And Personal Use Only
२३१
“त्रिभागं पञ्चभागं वा गृहीयात्मीरवाहक : " - दूति । तदायामसाध्याकृष्ट क्षेत्रकर्तृविषयम् । तत्रापि विभागपञ्चभागी व्यवस्था विकल्पितौ वेदितव्यौ । तथाच सएव -
"भक्काच्छादभृतः सौराद्भागं गृहीत पञ्चकम् । जात शस्ये विभागन्तु प्रगृहीयात्तथाऽमृतः” - इति । अशनाच्छादानाभ्यां भृतः कृषीबलः क्षेत्रजातशस्यात्पञ्चमं भागं गृहीयात् । ताभ्यामभृतस्तृतीयं भागमित्यर्थः । एतावद्दास्यामीति परिभाषायां सत्यामपि क्वचित्ततोन्यूनं स्वामिबुद्धिपरिकल्पितं वेतनं देयं, क्वचित्ततोऽप्यधिकं देयम् । तदाह याज्ञवल्क्यः, -
“देशं कालञ्च योऽतीयालाभं कुर्य्याच्च योऽन्यथा ।
तदा तु स्वामिनः छन्दोऽधिकं देयं ततोऽधिके"- इति ।
यः स्वाम्याज्ञामन्तरेण वाणिज्यादिलाभसाधन देशकालातिक्रमं करोति, लाभं च बहुतरव्ययकरणादल्पं करोति, तस्मै स्वामी स्वेच्छानुसारेण किञ्चिद्दद्यात् । यस्तु स्वातन्त्र्येण बहुलाभं करोति, तस्मै परिभाषितमूल्यादधिकं देयमित्यर्थः । अनेकत्थकर्टककर्मणि वेतनार्पणप्रकार माह सएव -
“यो यावत् क्रियते कर्म तावत्तस्य तु वेतनम् । उभयोरप्यमाध्यं चेत् माध्ये कुर्य्यात् यथाश्रुतम्" इति । यदा पुनरेकं कर्म नियतवेतनमुभाभ्यां बहुभिर्वा क्रियमाण