SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः। यत्र वाऽप्युपधिं पश्येत् तत् सवें विनिवर्तयेत्”-दति । योगउपधिः । अदेयदानतत्प्रतिग्रहयोर्दण्डो नारदेनोकः, "ग्टलात्यदत्तं योलोभाद्यश्चादेयं प्रयच्छति । अदेयदायको दण्ड्यम्तथाऽदत्तप्रतीच्छकः” इति । इति दत्तापदानिकम् । अथ वेतनस्यानपाकर्माख्यं विवादपदमुच्यते। तस्य खरूपमाह नारदः, "भृत्यानां वेतनस्योको दानादानविधिक्रमः । वेतनस्यानपाकर्म तद्विवादपदं स्मृतम्” इति । वेतनं कर्ममूल्यम् । तस्यानपाकर्म मृत्यायासमर्पणं, ममर्पितस्य परावर्जनं वा । तत्र समर्पणे विशेषमाह नारदः, "भृत्याय वेतनं दद्यात् कर्मखामौ यथाक्रमम् । श्रादौ मध्येऽवसाने च कर्मणो यद्विनिश्चितम्” इति । एतावदेव तत्कर्मकरणद्दास्यामौति भाषाया अभावे विशेषमाह मएव, "भृतावनिश्चितायान्तु दशभागमवाप्नुयुः । लाभगोवौर्यशस्थानां वणिग्गोपसषोबलाः” इति । गोवौर्य पाल्यमानगवादिप्रभवं पयःप्रभृति। यदि कर्मस्वामी भृत्याय दशमं भागं न प्रयच्छति, तदाऽसौ राज्ञा दाण्य इत्याह याज्ञवल्क्यः, * दापको,-इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy