SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२७ पराशरमाधवः। यहत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतम्" इति । पण्यस्य क्रौतद्रव्यस्य मूख्यम् । भृतिवेतनं कृतकर्मणे दत्तम् । तुया वन्दिचारणदिभ्यो दत्तम् । खेहाद्दुहित्रादिभ्यो दत्तम् । प्रत्युपकारतः उपकृतवते प्रत्युपकाररूपेण दत्तम् । स्त्रौशल्कं परिजयनार्थ दत्तम् । अनुग्रहार्थं अदृष्टार्थे ' दत्तम्। तदेतत्पण्यमूल्यादि सप्तविधं दत्तमेव न प्रत्याहरणीयम् । तथाच याज्ञवल्क्यः,___ “देयं प्रतिश्रुतञ्चैव दत्वा नापहरेत्युनः” इति । भयेन वन्दिग्रहादिभ्यो दत्तम्। क्रोधेन पुत्रादिविषयकोपनिर्यातनायान्यस्मै दत्तम्। पुत्रवियोगादिनिमित्तभोकावेशेन दत्तम्। उत्कोचेन कार्यप्रतिबन्धनिरामार्थमधिकृतेभ्यो दत्तम् । परिहामेनोपहासेन दत्तम्। द्रव्यव्यत्यासेन दत्तं एकस्य द्रव्यमन्यस्मै ददाति, दानव्यत्यासेन दत्तं अन्यस्मै दातव्यस्थान्यस्मै दानम् । छलयोगतः शतदानमभिसन्धाय सहसमिति परिभाष्य दत्तम् । बालेनाप्राप्तषोडशवर्षेण दत्तम्। मूढ़ेन लोकवेदानभिजेन दत्तम्। अखतन्त्रेण पुचदासादिना दत्तम्। पातेन रोगोपहतेन दत्तम् । मत्तेन मदनियमितेन, उन्मत्तेन वातिकाद्युन्मादग्रस्तेन अपवर्जितं दत्तम्। अयं मदीयमिदं करिष्यतीति प्रतिलाभेच्छया प्रतिलाभमकुर्वाणय दत्तम् । अयोग्याय योग्योक्तिमाचेण दत्तम् । यशं करिष्यामीति धनं खचा द्यूतादौ विनियुञानाय दत्तम् । एवं षोड़शप्रकारमपि दत्तं पुनः प्रत्याहरणीयत्वाददत्तमित्युच्यते । तथाच कात्यायनः,* अदृशार्थ,-इति का• पुस्तके नास्ति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy