________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
२२७
एकोऽप्यनीशः सर्वत्र दानाधमनविक्रये” - इति ।
तदविभक्तस्थावर विषयं सप्तानधिकस्यावरविषयं वा । कताधिकस्यैव देयत्वेनाभिधानात् । किंचिद् भर्चा भार्य्ययाऽनुज्ञातमेव देयम् । किञ्चिद्दामेन स्वार्जितमपि स्वाम्यनुज्ञातमेव देयम् ।
तथाच सएव -
"सौदायिकं क्रमायातं शौर्य्यप्राप्तञ्च यद्भवेत् । स्त्रीजातिस्वाम्यनुज्ञातं दत्तं सिद्धिमवाप्नुयात् ” - इति । सौदायिकं विवाहलब्धम् । क्रमायातं पितामहादिक्रमायातम् ।
स्वीज्ञात्यनुमतं सावशेषं देयम् ।
"वैवाहिके क्रमायाते सर्व दानं * न विद्यते " - इति तेनैवोक्रत्वात् ।
इत्थं देयादेयस्वरूपंनिरूपितम् । दत्तादत्तयोस्तु स्वरूपं निरूप्यते । तत्र दत्तं सप्तविधमदत्तं षोड़शात्मकम् । तथाच नारदः, - "दत्तं सप्तविधं प्रोक्तमदत्तं षोड़शात्मकम् । पण्यमूल्यं भृतिस्तुड्या स्नेहात् प्रत्युपकारतः ॥ स्नोशस्कानुग्रहार्थश्च दत्तं दानविदो विदुः । श्रदत्तन्तु भयक्रोधशोकवेगानुगर्हितम् ॥ तथोत्कोचपरीहासव्यत्यासच्छलयोगतः । बालमूढास्खतन्त्रार्त्तमत्तोन्मत्तापवर्जितम् ॥
For Private And Personal Use Only
कर्त्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् । अपात्रे पात्रमित्यु कार्ये चाधर्म्मसंहिते ।
* इत्यमेव पाठः सर्व्वत्र । मम तु सर्व्वदानं, -- इति पाठः प्रतिभाति ।