________________
Shri Mahavir Jain Aradhana Kendra
२२६
www. kobatirth.org
पराग्रमाधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
“तश्च सुतदाराणां वशित्वं त्वनुशासने । विक्रये चैव दाने च वशित्वं न सुतेपितुः " - इति । एवमादीनि सुतस्यादेयत्वप्रतिपादकानि वचनान्येकपुत्रविषयालौत्यवगम्यते । श्रनेकपुत्त्रेष्वपि मातापितृवियोग सहन क्षमएव देयः । “विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः ।
दाराः पुत्राश्च सर्वस्वमात्मन्येव तु योजयेत्" - इति कात्यायनस्मरणात् । न नेयाः स्युरनिच्छव इत्यनापद्विषयम् । " श्रापत्कालेऽपि कर्त्तव्यं दानं विक्रयएववा । अन्यथा न प्रवर्त्तत इति शास्त्रविनिश्चयः " - इति नेवाधित्य तेनैवोक्तत्वात् । पुत्रस्य प्रतिग्रहप्रकार विशेषोवमिथेन दर्शितः । " पुत्त्रं प्रतिग्रहीष्यन् बन्धूनाहय राजनि च निवेद्य निवेशनस्य मध्ये व्याहृतिभिर्डत्वाऽदूरबान्धवमम निकृष्टमेव गृहीयात्" इति। श्रदूरवान्धवं मन्त्रिष्टमातुलादिबान्धवम् । श्रमनिकृष्टं मनिकृष्टभ्रातृपुत्त्रादिव्यतिरिक्तमेव । स्थावरविषये देयं द्रव्यमाह प्रजापतिः, -
“सप्तागमात् गृहक्षेत्राद् यद्यत् क्षेत्रं प्रचीयते । पित्र्यं वाऽथ स्वयं प्राप्तं तद्दातव्यं विवचितम् ” - इति । मतभ्यश्रागमेभ्यो यत् प्रचीयते ममधिकं स्यात्तद्दातव्यत्वेन विवक्षितमिति । स्वयं प्राप्तं द्रव्यं श्रविभक्तधनेभ्रत गिरननुज्ञातमपि देयम् । “स्वेच्छादेयं स्वयम्प्राप्तम् ” - इति बृहस्पतिवचनात् । यत्तु तेनैवोक्रम् -
“विभका वाऽविभक्ता वा दायादाः स्यात्ररे समाः ।
For Private And Personal Use Only