SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम्। २२५ २२५ अवाहितादिवत् स्त्रीधनमप्यदेयम् । अतएव दक्षः, "मामान्यं याचितं न्यासाधिराच तद्धनम् । अवाहितञ्च निक्षेपं सर्वस्वं चान्वये मति ॥ आपत्स्वपि न देयानि नव वस्तूनि पण्डितैः । यो ददाति स मूढ़ात्मा प्रायश्चित्तौयते नरः" इति । अदेयदाने प्रतिग्रहे च दण्डो मनुनाऽभिहितः, "अदेयं यश्च ग्रहाति यश्चादेयं प्रयच्छति । तावुभौ चोरवच्छास्यौ दण्ड्यौ चोत्तमसाहसम्" इति । अदेयग्रहणमदत्तस्याप्युपलक्षणार्थम् । अतएव नारदः, "टचात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति । दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षिता" इति । किं तर्हि देयमित्यपेक्षिते मएवाह, “कुटुम्बभरणट्रव्यं यत्किञ्चिदतिरिच्यते । तद्देयमुपरुझान्यत् ददद्दोषमवाप्नुयात्” इति । भर्त्तव्यं कुटुम्बमुपरुध्येत्यर्थः । कात्यायनोऽपि, "सर्वखं ग्टहवर्जन्तु कुटुम्बभरणाधिकम् । यव्यं तत्वकं देयमदेयं स्थादतोऽन्यथा"-इति । याज्ञवल्क्योऽपि, "खं कुटुम्बाविरोधेन देयं दारसुतादृते"-इति । सुतस्यादेयत्वं एकपुत्रविषयम्। तस्यापि दाने कृते सन्तानविच्छेदापत्तेः । अतएवैकम्य पुत्रस्य दानं निषेधति वमिष्ठः । “न वेक पुत्रं दद्यात् प्रतिग्टकौयादा म हि सन्तानाय पूर्वेषाम्" इति । 29 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy