SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ पराशरमाधवः । चतुरोगान् भजेन्मुख्यः शूरस्त्यंशमवाप्नुयात् । समर्थस्तु हरेड्यंशं शेषास्वन्ये समाशिनः"-इति । परदेशात् वैरिदेशादित्यर्थः । प्रबलवैरिदेशादाहतधनविषयभेतत् । दुर्बलवैरिदेशादाहृतविषये वाह कात्यायनः, "परराष्ट्राद्धनं यस्य चोरैश्चेदाज्ञयाऽऽहतम् । राजे दशांशमुद्धृत्य विभजेरन् यथाविधि"-इति । सम्भूयसमुत्थानाख्यं पदं समाप्तम् । अथ दत्ताप्रदानिकाख्यं पदमुच्यते। तत्र नारदः, "दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति । दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् ॥ अदेयमथ देयं च दत्तं चादत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः” इति । अदेयस्वरूपभेदानाह रहस्पतिः, "मामान्यं पुत्रदाराधिसर्वखन्यामयाचितम् । प्रतिश्रुतमथान्यस्य न देयं त्वष्टथा स्मृतम्” इति । सामान्यमनेकस्वत्वकं रथ्यादि । नारदोऽपि, "अन्दाहितं याचितकमाधिः माधारणञ्च यत् । निक्षेपं पुत्रदारञ्च सर्वखं चान्वये मति ॥ श्रापत्स्वपि हि कष्टासु वर्त्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यसमै प्रतिश्रुतम्” इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy