________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
"सर्वेषामर्धिनोमुख्यास्तदर्धनार्धिनोऽपरे।
तौयिनस्तृतीयांशास्तुरीयांशास्तु पादिनः” इति । सर्वेषां षोडशर्विजां मध्ये मुख्याश्चत्वारोहोत्रध्वर्युब्रह्मोगातारः । ते गोशतस्यार्धिनः, सर्वेषां भागपरिपूर्णपपत्तिवशादायाताष्टाचत्वारिंशद्रपार्द्धणा भाजः । अपरे मैत्रावरुणप्रतिप्रस्थानब्राह्मणाच्छसिप्रस्तोतारस्तदर्द्धिनः धनमुख्यांशस्थार्द्धन चतुर्विंशतिरूपेणार्द्धभाजः । ये पुनस्ततौयिनोऽच्छावाकनेष्ट्रनीध्रप्रतिह रस्ते हतौयिनोमुख्यांशस्य षोड़शगोरूपटतीयांशभाजः। ये पादिनो ग्रावस्तोटनेटपोटसुब्रह्मण्याम्ते मुख्यस्य भागस्य चतुर्थांशेन द्वादशगोरूपेणांशभाजः । मुख्यानां चतुर्ण मिथोविभागः समत्वेनैव । एवं तदनन्तरादीनामपि मिथोविभागः। तथाच कात्यायनसूत्रम् । “दादश द्वादशायेभ्यः षट्पट्दितीयेभ्यः चतस्रश्चतस्रस्तृतीयेभ्यस्तिस्रस्तिस्रः इतरेभ्यः”-इति। स्वकीयकर्मकलापस्थाशक्त्याऽकरणे कृतानुसारेण भागोदेयइत्याह मनुः,
"ऋविग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण देयोऽशः सहकर्तृभिः” इति । सहकर्तृभिः, सम्भूयकारिभिरित्यर्थः । कृतकमांशानुसारेण दक्षिणां दद्यादित्युक्तम् । तस्य क्वचिदपवादमाह मएव,
"दक्षिणासु प्रदत्तासु खकर्म परिहापयन् ।
कृत्स्नमेव लभेतांशमन्येनैव च कारयेत्” इति । अन्येन स्वस्खगणवर्त्तिनां मध्ये प्रत्यासन्नेन । कर्ममध्ये ऋत्विकरणे नारद ाह,* इत्यमेव पाठः सर्वत्र ! मम तु, ऋत्विष्मरणे,-इति पाठः प्रतिभाति !
For Private And Personal Use Only