________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
"समवेतैस्तु यद्दत्तं प्रार्थनीयं तथैव तत् ।
17
न याचते च यः कश्चित् लाभात्स परिदौयते " - इति । सर्वानुगतः सर्वेषां कार्य्यमेकएव कुर्य्यात् । तदाह भएत्र, - " बहूनां सम्मतो यस्तु दद्यादेकोधनं नरः ।
करणं कारयेद्दाऽपि सर्वेरेव कृतम्भवेत् " - इति । करणन्तरस्यादिकम् । सम्भूयकारिणाम्टत्विजां कर्त्तव्यमाह मनुः, - " ऋत्विजः समवेतास्तु यथा सत्रे निमन्त्रिताः । कुर्युर्यथाऽर्हतः कर्म गृहीयुर्दचिणान्तथा" - इति । तथेति कर्मानुष्टारेण दक्षिणां गृहीयुरित्यर्थः । तथाच एव "सम्भूय खानि कर्माणि कुर्वद्भिरिह मानवैः । अनेन कर्मयोगेन कर्त्तव्यांशम्प्रकल्पयेत्" - इति ।
M
इथं चांशकल्पना “तस्य द्वादशशतं दक्षिणा " - इत्येवं क्रतुमम्बन्धिमात्रतया विहितायां दक्षिणायामेव, न ऋत्विग्विशेषोल्लेखन विहितायाम् । श्रतएवोक्तं तेनैव -
"रथं हरेत वाऽध्वर्युर्ब्रह्माऽधाने च वाजिनम् । होता हरेत्तथैवावं उद्गाता चाप्यनः क्रये (१) – इति । दक्षिणांशकल्पनामाह सएव, -
२२१
* इत्यमेव पाठः सर्व्वत्र । मम तु, साधनीयं - इति पाठः प्रतिभाति । + करणं लेख्यादिकम्, - इति विवादरत्नाकर व्याख्या ।
For Private And Personal Use Only
(१) केषांचिच्छाखिनामाधाने व्यध्वर्य्यये रथश्राम्नायते, ब्रह्मणे वेगवानवः, हो वाश्वः, उद्गात्रे सोमोहाइकमनः शकटम् । इति चण्डेश्वरीया व्याख्या ।