SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २१९ समन्यूनाधिकैरंशैलाभस्तेषां तथाविधः” इति । लाभवदेव व्ययादिरपि तथैवेत्याह सएव, "समन्यनाधिकोवाउंगो येन क्षिप्तस्तथैव सः । व्ययं दद्यात्कर्म कुर्य्यात्ततस्तेषां तथाविधः" इति । द्रव्यानुसारेण लाभ इत्यस्यापवादमाह याज्ञवल्क्यः,-- “समवायेन वणिजां लाभार्थं कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ”-इति । संविदा समयेन पुरुषविशेषानुसारेण, कृतौ कल्पितौ लाभालाभौ ज्ञेयो, न तु द्रव्यानुसारेणेत्यर्थः । सन्भूयकारिणां कर्त्तव्यमाह व्यासः, “समक्षमसमचं वाऽवञ्चयन्तः परस्परम् । नानापण्यानुसाराते प्रकुर्यु: क्रयविक्रयौ ॥ अगोपयन्तो भाण्डानि शुल्क दधुश्च तेऽध्वनि । अन्यथा द्विगुणं दाण्यः शुल्कस्थानात् वहिः स्थिताः" इति । नारदोऽपि, "भाण्डपिण्डव्ययोद्धारभारसाराद्यवेक्षणम् ।। कुर्य्यस्तेऽव्यभिचारेण समये खे व्यवस्थिताः" इति । * इत्यमेव पाठः सर्वत्र । मम तु, कुर्यात् लाभस्तेषां,-इति पाठः प्रति. भाति । कुर्यात् लाभ ग्टह्रौत चैवहि,-इति ग्रन्थान्तरतः पाठः । (१) भाण्डं क्रय्यविक्रय्यसमूहः । पिण्डं पाथेयम् । व्ययो वेतनम् । उद्दारस्तस्मात् देयद्रव्यात् प्रयोजन विरोधादाकर्षणम् । भारउदाह्यः । सारं प्रकृरं चन्दनादि । छन्वेक्षण रक्षण योजनादि । इति विवादरत्नाकरीया याख्या । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy