________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
उलखले पणाईन्तु मुमलस्य पणद्वयम् । शूर्पस्य च पणार्द्धन्तु दैविध्यं मुनिरब्रवीत्" इति ।
अस्वामिविक्रयाख्यं पदं समाप्तम् ।
अथ सम्भूयसमुत्थानाख्यं पदमुच्यते । तस्य स्वरूपमाह नारदः,
"वणिकप्रभृतयो यत्र क्रयं* मम्भूय कुर्वते ।
तत्सम्भयममुत्थानं व्यवहारपदं स्मृतम्" इति । तत्राधिकारिणो दर्शयति सहस्पतिः,
"कुस्लीनदक्षानलमैः प्राजैः नाणकवेदिभिः ।
श्रायव्ययज्ञः शुचिभिः शूरैः कुर्यात्मह क्रियाम्”- इति। क्रियां कृषिवाणिज्यशिल्पिक्रतुसङ्गीतस्तैन्यात्मिकाम् । नाणकविज्ञानं वाणिज्यक्रियायामुपयुज्यते। श्रायव्ययज्ञानमात्रं कृषिक्रियायाम् । मङ्गीतादिशिल्पिक्रियायां प्राजत्वमुपयुज्यते । क्रतुक्रियायां तु कुलीनत्वप्राजत्वशचित्वादि। स्तैन्यक्रियायां शरत्वमात्रम् । दक्षत्वानलमत्वे तु मर्वत्रोपयुज्यते। अतएवादक्षादि निषेधति मएव,
"अशकालमदुर्बुद्धिमन्दभाग्यनिराश्रयैः ।।
वाणिज्याद्याः महैतैस्तु न कर्त्तव्याबुधैः क्रियाः" इति । ये तु सम्भूय वाणिज्यादिक्रियां कुर्वन्ति, ते द्रव्यानुमारेण लाभभाजः । तथाच वृहस्पतिः,
"प्रयोगं कुर्वते ये तु हेमधान्यरमादिना ।
- कम, इति क • । कर्म,---इति ग्रन्थान्तरकृतम्त पाठः समीचीनः ।
For Private And Personal Use Only