________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
पराशरमाधवः।
त्याह कात्यायन:
"अदत्तत्यकविक्रीतं कृत्वा खं लभते धनम्" इति। अथैतद्दत्तन्यक्तं विक्रौतञ्च न भवतीति प्रमाणैः प्रमाध्य स्वकीयं धनं नाष्टिकः विक्रेत्रादेः सकाशालभते इत्यर्थः। पत्रविषये विशेषमाह रहस्पतिः,
"पूर्वस्वामी तु तट्रव्यं यदाऽऽगत्य विभावयेत् ।
तत्र मूलं दर्शनीयं क्रेतः शुद्धिस्ततो भवेत्” इति । मूलं विक्रेता । विक्रेतुर्दर्शनानन्तरं व्यासः,
"मूले समाहते क्रेता नाभियोज्यः कथञ्चन ।
मूलेन सह वादस्तु नाष्टिकस्य तदा भवेत्”-दति । यदा तु मूलभूतो दर्शितोविक्रेता न किञ्चिदुत्तरं ददाति, तदात्वाह इहस्पतिः,
"विक्रेता दर्शितो यत्र विहीनो व्यवहारतः । क्रेटराज्ञोर्मूल्यदण्डौ प्रदद्यात् स्वामिनोधनम्” इति । यदा तु मूलभूतोविक्रेता देशान्तरङ्गतः, तदा कात्यायन आह,
"मूलानयनकालश्च देयो योजनमङ्मया । प्रकाशं प्रक्रयं कुर्यात् माचिभिर्जातिभिः खकैः ।। न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी। प्रसाधिते क्रये राज्ञा वक्रव्यः स न किञ्चन" इति । अयमर्थः । यस्तु क्रेता कालविलम्बेनापि मूलं दगातुं न
* यत्र विषये,-इति का•। मम तु, अत्र विषये,-इति पाठः
प्रतिभाति ।
For Private And Personal Use Only