________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम्।
२१५
शक्रोति, क्रयप्रकाशनच्च करोति, म नराधमः। तस्माच नाष्टिकोधनं लभते इति। तदुकं मनुना,
"श्रथ मूलमनाहार्य प्रकाशक्रयशोधितम् ।
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम्" इति । क्रेतुः सकाशाद्धनग्रहणमर्द्धमूल्यं दत्वैव। तथाच कात्यायनः,
“वणिग्वौथोपरिगतं विज्ञातं राजपूरुषैः । अविज्ञाताश्रयात् क्रौतं विक्रेता यत्र वा मृतः ॥
खामौ दत्वाऽर्द्धमूल्यन्तु प्रग्टलीयावकं धनम्” इति । अविज्ञाताश्रयादविज्ञातस्थानकादित्यर्थः । क्रयप्रकाशनपक्षयोः* मति सम्भवे मूलानयनपक्षएव ग्राह्यः । तदुक्तं कात्यायनेन,
“यदा मूलमुपन्यस्य पुनर्बादी क्रयं वदेत् । श्राहरेत् मूलमेवामौ न क्रयेण प्रयोजनम् ॥
अममाहार्यमूलस्तु क्रयमेव विशोधयेत्” इति । यदा मूलदर्शनं क्रयप्रकाशनं वा न करोति, तदा दण्ड्य इत्याह मएव,
"अनुपस्थापयन्मूलं क्रयं वाऽप्यविशोधयन् ।
यथाऽभियोगं धनिने धनं दाप्योदमञ्च मः" इति ॥ नाष्टिकविप्रयोगमाह सएव,
"यदि खं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम् । प्रसङ्गविनिवृत्यर्थं चोरवद्दण्डमर्हति" इति।
इत्यमेव पाठः सर्वत्र । मम तु, मूलानयनकयप्रकाश नपक्षयोः, इति पाठः प्रतिभाति।
For Private And Personal Use Only