SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । ते क्रये व स चोरो भवति । तस्करवद्दण्ड्यो भवतीत्यर्थः । यथोक मनुना, "द्रव्यमखामिविक्रीतं प्राक् राज्ञे विनिवेदितम् । न तच विद्यते दोषः स्तेनः स्यादुपविक्रये"-इति । येन केत्रा होनमूल्येन यात् प्रागेव राज्ञे निवेदितं, न तत्र दोषः । उपविक्रयशब्दस्यार्थस्तेनैव दर्शितः, "अन्तर्महे वहिर्यामानिमायामसतो जनात् । होनमूल्यञ्च यत्कौतं ज्ञेयोऽसावुपविक्रयः” इति । असतोजनात् चण्डालादेरित्यर्थः । अमदहणं खाम्यननुज्ञाताधुपलक्षणार्थम् । श्रतएव नारदः, "खाम्यनुमताद्दामादसतश्व जनाद्रहः । होनमूल्यमवेलायां कौणस्तद्दोषभाग्भवेत्” इति । कात्यायनः, "नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञाभिः स्वकम्” इति । माष्टिको नष्टधनः, तद्धनं नष्टधनं, ताभिः साक्ष्यादिभिः, प्रकुर्वीत माधयेदित्यर्थः । श्राह याज्ञवल्क्यः, "श्रागमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा । पञ्चबन्धोदमस्तत्र राज्ञस्तेनाविभाविते” इति । आगमस्त स्मृत्यन्तरेऽभिहितो द्रष्टव्यः, "लधं दानक्रयप्राप्तं शौर्य वैवाहिक तथा । बान्धवादप्रजातश्च षविधस्तु धनागमः" इति । खकीयधनस्य खकीयवानपगतिरपि दानाद्यभावेन माधनौये For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy