________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
दण्ड्यः स राज्ञा भवति दाप्यस्तच्चापि मोदयम्" इति । अत्र दण्डोऽपि समएव यायः । तदाह मनुः,
"निक्षेपस्यापहर्तारं तत्सम दापयेद्धनम् ।
तथोपनिधिहर्तारं विशेषेणैव पार्थिवः” इति । रहस्पतिरपि,
"ग्टहीतं निहुते यत्र सातिभिः शपथेन वा । विभाव्य दाप्ययेन्यासं तत्समं विनयं नृपः” इति । स्थापकस्यानृतवादित्वे दण्डमाह मनुः,
"निक्षेपो ह्यनिवेद्यो यः धनवान् कुलसन्निधौ।
तावानेव स विज्ञेयो विबुद्धं दण्डमर्हति" इति । समाक्षिनिक्षेपे माक्षिवचनविरुद्धं न दण्ड्यः । अमाक्षिके तु सहस्पतिराह,
"रहो दत्ते निधौ यत्र विसंवादः प्रजायते।
विभावकं तत्र दिव्यमुभयोरपि च स्मृतम्" इति । ग्रहीटस्थापकयोरनृतवादित्वे दण्डमाह मनुः,
"निक्षेपस्यापहर्तारं अनिक्षेप्तारमेवच । मरुपायैरन्विच्छेत् शापयेच्चैव वैदिकैः ॥ यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते ।
तावुभौ चौरवच्छास्यौ प्रदाप्यौ तत्समं दमम्” इति । निक्षिप्तद्रव्यमकाले ददतो दिगुणोदण्डः । तदाह कात्यायनः,
"ग्राह्यस्वपनिधिः काले कालहीनन्तु वर्जयेत् । कालहौनं ददद्दण्डं द्विगुणञ्च प्रदाप्यते”-दति ।
For Private And Personal Use Only