________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
पराशरमाधवः।
ग्रहीतुरितिशेषः । राजशब्देनासमाधेयनिमित्तमुपलक्ष्यते । अतएव कात्यायनः
"अराजदैविकेनापि निचितं यत्र नाशितम् ।
ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते” इति । नारदः,
"ग्रहीत: सह योऽर्थन नष्टो नष्टः स दायिनः ।
दैवराजकृते तदन्न चेत् तजिह्माकारितम्" इति । दैवग्रहणं तस्करोपलक्षणार्थम् । अतएव याज्ञवल्क्यः,
“न दायोऽपहतं तत्तु राजदैविकतस्करैः” इति । मनुरपि,
"चौरईतं जलेनोढ़मग्मिना दग्धमेवच ।
मदद्याद्यदि तस्मात्म न संहरति किञ्चन"-इति । यदि तस्माद्धनात् स्तोकमपि म ग्टहाति, तदा दद्यादित्यर्थः । तथाच सएव,
"समुद्रे नाप्नुयात् किञ्चित् यदि तस्मान्न संहरेत्” इति । क्वचित् केनचित् हेतुना नष्टमपि ग्रहौता मूलदारेण न दाण्यइत्याह कात्यायनः,
"ज्ञात्वा द्रव्यवियोगन्तु दाता यत्र विनिक्षिपेत् । सर्वापायविनाशेऽपि ग्रहौता नैव दाप्यते” इति । उपेक्षादिना नाशे तु वृहस्पतिराह,
"भेदेनोपेक्षया न्यामं ग्टहीत्वा यदि नाशयेत् । न दद्याद्याच्यमानो वा दाप्यस्तं मोदयं भवेत्" इति।
For Private And Personal Use Only