________________
Shri Mahavir Jain Aradhana Kendra
༢.ཝ
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
यदा तु न सकुल्याः थुर्न च सम्बन्धिबान्धवाः ।
तदा दद्याद्द्विजेभ्यस्तु तेव्वसत्व निचिपेत् ” - इति ॥ इति ऋणादानप्रकरणम् ।
श्रथ निक्षेपास्यस्य द्वितौयपदस्य विधिरुच्यते ।
तच निचेषस्वरूपं नारद प्राह
"स्वं द्रव्यं यत्र विखम्भा विचिपत्यविशङ्कितः । निच्छेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः " -- इति । उपनिधिन्यासौ मिलेपविशेषौ । तयोः स्वरूपमाह बृहस्पतिः:“श्रनाख्यातं व्यवहितमसङ्ख्यातमदर्शितम् ।
मुद्राङ्कितञ्च यद्दत्तन्तदौपनिधिकं स्मृतम् । राजचौरादिकभयाद् दायादानाश्च वचनात् ।
स्थाप्यतेऽन्यस्य यद्द्रव्यं न्यासः स परिकीर्त्तितः” इति ।
रूपमङ्ख्या विशेषमकथयित्वा समग्रमन्यहस्ते रचणार्थं यत् स्वाप्यते,
तद्रव्यमौपनिधिकम् । निचेपणविधिमाह मनुः, -
"कुलने वृत्तसम्पत्रे धर्मज्ञे सत्यवादिनि ।
महापचे धनिन्यार्थे निचेपं निचिपेदुधः" - इति । बृहस्पतिः, -
"खानं गृहं स्थलचैव तदर्थं विविधान् गुणान् * ।
सत्यं शौचं बन्धुजनं परौक्ष्य स्थापयेविधिम्” - इति ।
तस्य निचेपस्य पुनर्वैविध्यमाह नारदः, -
* स्थानं ग्टहं ग्टहस्थच्च तदलं विभवं गुणान्, -- इति पुस्तकान्तरे पाठः ।
For Private And Personal Use Only