________________
Shri Mahavir Jain Aradhana Kendra
२००
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः " - इति । न पतिः स्त्रीकृतं तथेत्यस्यापवादमाह याज्ञवल्क्यः,“गोपशौण्डिकशैलूषरजकव्याधयोषिताम् ।
ऋणं दद्यात्पतिस्तासां यस्मादृत्तिस्तदाश्रया” इति । योषित्पत्या कृतमृणं न दद्यादित्यस्यापवादमाह नारदः, - " दद्यादपुत्रा विधवा नियुक्ता वा मुमूर्षुणा ।
या वा तदृक्यमादद्याद् यतो ऋक्थमृणं ततः” - इति । याज्ञवलक्योऽपि -
" प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् । स्वयं कृतं वा यदृणं नान्यत् स्त्रौ दातुमर्हति ” – इति । श्रप्रतिपन्नमपि तदृक्थग्रहले स्त्रिया देयमित्याह कात्यायनः, - “ऋणे कृते कुटुम्बार्थे भर्त्तुः कामेन या भवेत् ।
दद्युः तदृक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ” - इति । श्रविभक्तेः कुटुम्बार्थ कृतमृणं कुटुम्बी दद्यात् । तस्मिन् प्रोषिते तद्दृक्थिनः सर्वे दद्युः । नारदोऽपि -
“पिढव्येणाविभक्रेन भ्रात्रा वा यदृणं कृतम् ।
मात्रा वा यत्कुटुम्बार्थे दद्युस्तत्सर्वम्टक्थिनः” – इति । श्रनेकऋणदात्तसमवाये याज्ञवल्क्यः, -
"रिक्थग्राही ऋणं दाप्यो योषिद्ग्राहस्तथैवच । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः " - इति ।
यो यदीयं द्रव्यं ऋक्थरूपेण गृह्णाति स तत्कृतमृणं दाप्यः ।
| तदभावे तु रागादिवशाद्यो यदीयां भार्य्यं ग्टहाति स तत्कृतम्टण
For Private And Personal Use Only