SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "शिष्यान्तेवामिदासस्त्रौप्रेष्यकृत्यकरैश्च यत् । कुटुम्बहेतोरुत्तिप्तं दातव्यं तत्कुटुम्बिना” इति । शिष्योऽत्र विद्यार्थौ । शिल्पशास्त्रार्थों अन्तेवासी । उत्क्षिप्तमसन्निधानादिना स्वानुज्ञां विनाऽपि तमृणम् । कात्यायनोऽपि, "प्रोषितस्यामतेनापि कुटुम्बार्थमृणं कृतम् । दासस्त्रीभाशिष्यैर्वा दद्यात्पुत्रेण वा पिता” इति। . भृगुरपि, "ऋणं पुत्रकृतं पित्रा शोध्यं यदनुमोदितम् । सुतस्नेहेन वा दद्यान्नान्यत्तद्दातुमर्हति" इति । नारदोऽपि, "पितुरेव नियोगादा कुटुम्बभरणाय च” इति । कुटुम्बव्यतिरिकर्णविषये याज्ञवल्क्यः, “न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता। दद्यादृणं कुटुम्बार्थो न पतिः स्त्रोक्तं तथा” इति । न पुत्रेण कृतं पितेत्यम्य क्वचिदपवादमाह वृहस्पतिः, "कृतं वा यदृष्णं कृच्छं दद्यात्पुत्रेण तत्पिता”-इति । अत्र पुत्रग्रहणं कुटुम्बोपलक्षणार्थम् । पिरग्रहणञ्च प्रभोरुपलक्षणार्थम् । तथाच कात्यायनः, “कुटुम्बार्थमशके तु ग्टहीतं व्याधिनाऽथवा : उपनवनिमित्तञ्च विद्यादापत्तन्तु तत् ॥ कन्यावैवाहिकञ्चैव प्रेनकार्येषु यत्कृतम् । * इत्यमेवं पाठः सर्वत्र । मम तु, दद्यानान्यथा दातुमर्हति, इति पाठः प्रतिभाति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy