SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। “इच्छन्ति पितरः पुत्रान् खार्थहेतोर्यतस्ततः । उत्तमर्णाधमाभ्यां मामयं मोचयिष्यति ॥ श्रतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः । - ऋणात्पिता मोचनीयो यथा न नरकं ब्रजेत्” इति । उत्तममृणं, “जायमानोवै ब्राह्मणस्विभिर्पणवान् जायते"इति श्रुतिप्रतिपादितम्मणम्। अधममृणं परहस्तात् कुसौदविधिना महौतम् । कात्यायनोऽपि, "नृणान्तु सूमुभिर्जातः दानेनैवाधमादृणात् । विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान्” इति । जातेनेत्यभिधानाच जातमात्रस्य मणमोचनेऽधिकारः, किन्तु प्राप्तव्यवहारयेत्याह मएव, "नाप्राप्तव्यवहारस्तु पित[परते कचित् । काले तु विधिना देयं वसेयुर्नरकेऽन्यथा” इति । कनिदिधमानेऽपि पितरि सुतैर्दयमित्याह मएव, "विद्यमानेऽपि रोगाः खदेशात्प्रोषिते तथा । विंशात्मवत्मराद्देयम्हणं पिकृतं सुतैः” इति । रहस्पतिरपि, “मानिध्यापि पितुः पुत्रैः कृणं देयं विभावितम् । जात्यन्धपतितोन्मत्तक्षयश्चित्रादिरोगिणः” इति । मुणदाने अधिकारिणं पुत्रं दर्शयति कात्यायनः, "ऋणं तु दापयेत्पुत्रं यदि स्थानिरुपद्रवम् । द्रविणाईश्च धूर्य्यश्च नान्यथा दापयेत् तम्" इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy