________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
पौड़येत्तु धनी यत्र ऋणिक न्यायवादिनम् ।
तस्मादर्थात्म होयेत तत्समं प्राप्नुयात् दमम्” इति । यस्त्वधमर्णस्तुत्तमर्णमकाशात् व्यवहारार्थं धनं ग्टहीतवान्, स तस्यैव धनं दद्यात्, नान्येषाम् । तदाह कात्यायनः,
“यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत् ।
नव्यमणिकेणैव दातव्यं तस्य नान्यथा"- इति । निर्धनाधमर्णविषये ऋणप्रतिदानप्रकारमाह भारद्वाजः,
"ऋणिकस्य धनाभावे देयोऽन्योऽर्थस्तु तत्रमात् । धान्यं हिरण्यं लौहं वा गोमहिय्यादिकं तथा ॥ वस्त्रं भूर्दासवर्गच वाहनादि यथाक्रमम् । धनिकस्य तु विक्रीय प्रदेयमनुपूर्वशः ॥ क्षेत्राभावे तथाऽऽरामस्तस्याभावे हयक्रयः । द्विजातीनां ग्टहाभावे कालहारो विधीयते"-इति । मनुरपि,
"ऋणं दातुमशक्को यः कर्तुमिच्छेत्पुनः क्रियाम् ।
स दत्वा निर्जितां वृद्धिं करणं परिवर्तयेत्” इति । श्रयमर्थः। प्रतिदानकाले धनासम्पत्तिवशात्मवृद्धिकमलदानाशाकोऽधमर्ण: ऋणस्य चिरन्तनत्वं परिहरतो धनिकस्य समानार्थकियां लेख्या दिरूपां पुनः कर्तुमिच्छेत्, स नियन्त्रां द्धिं दत्वा करणं परिवर्तयेत् ; पुनलेख्यादिक्रियां वर्तमानवत्सरादिचिह्निता कुर्यादिति । यः पूर्वनिर्जितवृद्धिं दातुमसमर्थः, स तु तां मूलबेनारोपयेत् । तदाह सएव,
For Private And Personal Use Only