________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
पराशरमाधवः।
दाप्यः, भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण । माधयितुमशतं धनिक प्रत्याह याज्ञवल्क्यः,
"राज्ञाऽधमर्णिकोदाण्यः साधिताद्दशकं शतम् ।
पञ्चकन्तु शतं दाप्यः प्राप्तार्थो [त्तमर्णिकः”-ति । प्रतिपन्नस्यार्थस्य राजा दशमांशमधमर्णिकाद्दण्डरूपेण ग्टहीयादुत्तमादिशतितमं भागं वृत्त्यर्थं ग्रहोयादित्यर्थः । अधनिकऋणादानप्रकारमाह याज्ञवल्क्यः,--
"हौनजातिं परिक्षौणमृणार्थ कर्म कारयेत् ।
ब्राह्मणस्तु परिक्षीण: शनैर्दाप्यो यथोदयम्" इति । ब्राह्मणग्रहणमुल्टटजात्युपलक्षणार्थम् ।
“कर्मणाऽपि समं कार्यं धनिकं वाऽधमर्णिकः ।
समोऽपकरजातिश्च दद्यात् श्रेयांस्तु तच्छनैः” इति स्मरणात्। नारदोऽपि,
"अथ शनिविहौनश्चेदृणी कालविपर्ययात् ।
शक्त्यपेक्षमृणं दाप्यः काले काले यथोदयम्" इति । दुष्टाधमर्णिकं प्रत्याह मनुः,
“ऋणिकः मधनोयस्तु दौराम्यान्न प्रयच्छति ।
राजा दापयितव्यः स्यात् ग् होत्वा द्विगुणो दमः" इति । मन्दिग्धेऽर्थ ऋणग्रहणं कुर्वतोऽर्थ हानिर्दण्डत्याह वृहस्पतिः,
"अनावेद्य तु राज्ञे यः सन्दिग्धार्थ प्रवर्तते ।
प्रसह्य स प्रवेश्यः स्यार वोऽप्यथो न सिध्यति"-दूति । कात्यायनोऽपि,
For Private And Personal Use Only