________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार काण्डम् ।
धर्मादौन स्वयमेवाह,
"सुहृत्सम्बन्धिमन्दिष्टैः सामोक्त्याऽनुगमेन च । प्रायेणाथ ऋणो दाप्यो धर्म एवमुदाहृतः ॥ छद्मना याचितं चार्थमानीय ऋणिकात् धनौ। अन्वाहितं समाहत्य दाप्यते यत्र मोपधिः ॥ यदा स्वग्टहमानीय ताड़नाद्यैरुपक्रमैः । ऋणिको दाप्यते यत्र बलात्कारः प्रकीर्तितः ॥ दारपुत्रपशून् वध्वा कृत्वा द्वारोपरोधनम् ।
यत्रणे दाप्यतेऽर्थन्तु तदाचरितमुच्यते” इति । मनुरपि धर्मादौनुपायान् दर्शयति,
“धर्मण व्यवहारेण छलेनाचरितेन च।।
प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च”-इति । धर्मादयश्चोपायाः पुरुषापेक्षया प्रयोक्तव्याः । तदाह कात्यायनः,
"राजा तु स्वामिनं विप्रं भान्वेनैव प्रदापयेत् । रिक्थिनं सुहृदं वाऽपि छलेनैव प्रदापयेत् ॥ वर्णिकाः कर्षिकाः चैव शिल्पिनश्चाब्रवौद्भगः ।
देशाचारेण दाप्याः स्युर्दुष्टान् सम्पौद्य दापयेत्” इति । दापने विशेषमाह याज्ञवल्क्यः,
"सहौतानुक्रमाद्दाप्यो धनिनामधमर्णिकः ।
दत्वा तु ब्राह्मणयेव नृपतेस्तदनन्तरम्” इति । समानजातीयेषु धनिषु युगपत्प्राप्तेषु ग्रहौतानुक्रमात् धनं
For Private And Personal Use Only