SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १८ह www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir “नष्टस्यान्वेषणार्थन्तु देयं पत्तत्रयं परम् । यद्यमौ दर्शयेत्तस्य मोक्तव्यः प्रतिभूर्भवेत् ॥ कालेऽप्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् । स तमर्थं प्रदाप्यः स्यात्प्रेते चैवं विधीयते” – इति दानप्रत्ययप्रतिभुवोः कृत्यमाह नारदः, - "ऋविप्रतिकुर्व प्रत्यये वाऽथ हापिते | प्रतिभूस्तु ऋणं दद्यादनुपस्थापयंस्तदा " - इति । प्रतिकुर्वः बन्धनदान अददत् । प्रत्यये ज्ञापितवासेऽपगते । धनार्पणप्रतिभुवः कृत्यमाह सएव - “विश्वासार्थं कृतस्वाधिनं प्राप्तो धनिना यदा । प्रापणीयस्तदा तेन देयं वा धनिनां धनम् " - इति । अधिप्रत्यर्पणप्रतिभुवं प्रत्याह सएव - “खादको वित्तहीनश्च लग्नको वित्तवान् यदि ! मूलं तस्य भवेद्देयं न वृद्धिं दातुमर्हति ” - इति । खादको बन्धभक्षकः, लग्नकः प्रतिभूः । स तु वृद्धिं दातुं नार्हति । खादकादष्यत्र, मूल्येन तोषयेदिति वचनात् तन्मूल्यमात्रमेव देयम् । एत्रमितरेषां प्रतिभुवामपि देयद्रव्यविधयो द्रष्टव्याः । प्रतिभूग्रह्यइति प्रकृतमाह कात्यायनोऽपि - " दानोपस्थानवादेषु विश्वासशपथाय च । लग्नकं कारयेदेवं यथायोगं विपर्य्यये” - इति ; * इत्यमेव पाठः सर्व्वत्र । मम तु मूलेन तोपयेदिति वचनात् मूलमात्र मेव - इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy