SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १८५ "यदि प्रकर्षितं तस्यात्तदा न धनभाग्धनौ। ऋणी न लभते बन्धं परस्परमतं विना"-इति । इत्याधिविधिः। अथ प्रतिभूः। तत्र रहस्पतिः, "दर्शने प्रत्यये दाने ऋणे द्रव्यार्पणे तथा । चतुःप्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः । पाईको दर्शयामौति माधुरित्यपरोऽब्रवीत् । दाताऽहमेतद्रविणमर्पयामौति चापरः” इति । अहमेव तदीयं धनमर्पयामीति ब्रवीतीत्यर्थः । दर्शनप्रतिभुवः कृत्यमाह सएव, "दर्शनप्रतिभूर्यस्तु देशे काले च दर्शयेत् । निबन्धं वाहयेत् तत्र नैव राजकृतादृते"-इति । निबन्ध कृणं वाहयेत् धनिनं प्रापयेत् । यस्तु न दर्शयति, तं प्रत्याह मनुः, “यो यस्य प्रतिभूस्तिष्ठेत् दर्शनायेह मानवः । श्रदर्शयन्म तं तत्र प्रयच्छेत् स्वधनादृणम्” इति । दर्शनाय कालं दद्यादित्याह रहस्पतिः, “नष्टस्यान्वेषणे कालं दद्यात्प्रतिभुवे धनौ। देशानुरूपतः पदं मासं मार्द्धमथापिवा" - इति । कात्यायनोऽपि, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy