________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५
पराशरमाधवः ।
ऋणदानेच्छाकाले यत् तस्याधेर्मल्यं, तत्परिकल्प्य तत्रैव धनिनि तमाधिं वृद्धिरहितं स्थापयेत्तत ऊर्ध्वं न वर्द्धते इति । भोग्याधिविषये क्वचिद्विशेषमाह सहस्पतिः,
"क्षेत्रादिकं यदा भुक्तमत्यन्तमधिकं ततः ।
मूलोदयं प्रविष्टं चेत्तदाऽऽधिं प्राप्नुयादृणी"- इति । तेन प्रविष्टे मोदये द्रव्ये त्वयैतन्मोतव्यमित्येवं परिभाष्य यदा क्षेत्रादिकमादध्यात्, तदा भोगेन क्षेत्रार्थव्ययमहितमवृद्धिकधनप्रवेशे सति आधिमादद्यादधमर्ण इत्यर्थः । याज्ञवल्क्योऽपि,
“यदा तु द्विगुणीभूतम्रणमाधौ तदाऽखिलम् ।
मोच्चाधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने"-दति । अयमेव क्षयाधिरित्युच्यते लोकः। यत्र तु वृद्ध्यर्थएव भोगइति परिभाषते, तत्र भोगेनाधिकधनप्रवेशे यावन्मूलदानं नाधितिव्यः।
"परिभाष्य यदा क्षेत्र तथा तु धनिके ऋणी । त्वयैतदृत्तलाभेऽर्थ भोक्रव्यमिति निश्चयः ॥
प्रविष्टे मोदये द्रव्ये प्रदातव्यन्त्वया मम"-दति । ऋणग्रहणकाले धनद्वैगुण्यानन्तरं भोगः । मूलमात्रं दत्वाऽधमणे बन्धनं प्राप्नोति । धनौ च मृणं मूलमात्रं न ग्टल्लौयात् । किन्तु पूर्ण वर्ष समग्रवृद्धिपर्याप्ते धने प्रविष्टे सति धनिनो मुलमात्र देयम् । ऋणिनो बन्धलाभ इति। परस्परानुमतौ तु वृद्ध्यपर्याप्तभोगेऽपि मूलमात्रदानेनवाधिलाभः इत्यर्थः । परिभाषितकालैकदेशेनैव समग्रवृद्धिपर्याप्तवर्षप्रवेशे सपाह.
For Private And Personal Use Only