________________
Shri Mahavir Jain Aradhana Kendra
१२
www. kobatirth.org
परराशर माधवः ।
रित्रबन्धककृतम् । श्रथवा चरित्रमग्निहोत्रादिजनितमपूर्वम् । तदेव बन्धकं चरित्रबन्धकम् । तेन यद्रव्यमात्मसात्कृतं, तत्मवृद्धिकमेव दापयेत्, न तु धनद्वैगुण्येऽप्याधिनाशः । सत्यस्य कारः सत्यङ्कारः । तेन कृतं सत्यङ्कारकृतम् । तदपि द्विगुणमेव देयं, न तु लाभादिनाशः* । श्रयमभिप्रायः । बन्धकार्पणसमयएव मया द्विगुणमेव द्रव्यं दातव्यं नाधिनाशः इति नियमे कृते, तदेव द्विगुणभूतं दातव्यं नाधिनाशः दूति । क्रयविक्रयादिव्यवस्था निर्वाहाय यदङ्गुलीयकादि परहस्ते समर्पितं,तत्सत्यङ्कारकृतम् । तत्राङ्गुलीयकादि ग्टहीत्वा व्यवस्थामतिक्रामन् तदेवाङ्गुलीयकादि द्विगुणं प्रतिपादयेत् । इतरश्चेदङ्गुलीयकादिकमेव त्यजेत् । वस्त्वाधौ नियममाह प्रजापतिः, - “यो वै धनेन तेनेव परमाधिं नयेद्यदि ।
कृत्वा तदाऽऽधिलिखितं पूर्वञ्चापि समर्पयेत्” - इति । यवन्धकस्वामिनि धनं प्रयुक्तं तत्तुल्येनैव धनेन परं धनिकान्तरमाधिं नयेत्, न त्वधिकेन । श्रयं वस्त्वाधिर्धनस्य द्वैगुण्ये मति । सम्प्रतिपत्तौ तु द्वैगुवादर्वागपि द्रष्टव्यः ।
श्रथाधिमोचनम् ।
Acharya Shri Kailassagarsuri Gyanmandir
तत्र बृहस्पतिः, -
“धनं मूलीकृतं दत्वा यदाऽऽधिं प्रार्थयेदृणी । तदैव तस्य मोक्तव्यस्त्वन्यथा दोषभाग्धनौ ” इति ।
* लामनाशः, -इति का
For Private And Personal Use Only