________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
१८१
“हिरये द्विगुणीभूते मृते नष्टेऽधमर्णिके । द्रव्यन्तदीयं संग्टह्य विक्रिणीत समाचिकम् ॥ रचेद्वा कृतमूल्यं तु दशाचं जनसंसदि । ऋणानुरूपं परतो ग्टहीत्वाऽन्यत्तु वर्जयेत्” - इति । हिरवे द्विगुणीभूते पचादाधिमोचणादवगधमर्णिके म्मृते नष्टे कुत्रचिते चिरकालमविज्ञाते सति श्राधिकृतं द्रव्यं समाचिकं विक्रय चरितानुरूपं द्विगुणीभूतद्रव्यपर्याप्तं ग्टहीत, ततोऽवशिष्टं वर्जयेत् राज्ञे समर्पयेदित्यर्थः । तथाच कात्यायनः, -
“श्रधाता यत्र नष्टः स्यात् धनी बन्धं निवेदयेत् । राज्ञा ततः स विख्यातो विक्रेय इति धारणा ॥ समृद्धिकं गृहौला तु शेषं राजन्यथार्पयेत्” – इति । राज्ञे समर्पणञ्च ज्ञात्याद्यभावविषयम् । तत्सद्भावे तत्रैव समर्पणस्य न्याय्यत्वात् । श्रन्यत्तु वर्जयेदित्यनेन धनदैगुण्ष्ये ऽप्यकृतकालावधिकाधौ धनिकस्यास्वामित्वमवगम्यते । धनद्वैगुण्ये स्वत्वप्रतिपादकं याज्ञवल्क्यवचनं समानाधिविषयम् * । श्रतएव, न्यूने अधिकेच बन्धे श्रधिनाशोनास्ति, किन्तु द्विगुणीभूतं द्रव्यमेव राज्ञा दाप्य इत्याह
याज्ञवल्क्यः,
For Private And Personal Use Only
“चरिचबन्धककृतं सवृद्ध्या दापयेद्धनम् ।
सत्यङ्कारकृतं द्रव्यं द्विगुणं दापयेत् ततः " - इति ।
चरित्रं शोभनाचरितं खच्छाशयत्वम् । तेन यत् बन्धकं, चरित्रबन्धकम् । तेनाधिकेन यद्द्रव्यमात्ममात् कृतं पराधीनं वा कृतं, तच्च
* समांशाधिविषयम्, - इति शा० ।