________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
मोक्ष्यते, तदाऽधमर्णस्य नश्येत् । प्रकृतकालः फलभोग्यः कदाचिदपि न नश्यति। द्वैगुण्यनिरूपितकालयोरुपरि चतुर्दशदिवसप्रतीक्षणं कर्त्तव्यमित्याह व्यामः,
"हिरण्ये दिगुणीभूते पूर्णकाले कृतावधौ । बन्धकस्य धनस्वामौ दिसप्ताहं प्रतीचते ॥
तदन्तरा धनं दत्वा मुणौ बन्धमवाप्नुयात्” इति । नन्वाधेः खत्वनिवृत्तेः खत्वोत्यत्तेच कारणं नाम्ति, विषयोऽपि मास्ति। मैवम् । न केवलं दानादिरेव स्वत्वनिवृत्तिकारणम्, प्रतिग्रहादिरेव स्वत्वापत्तिकारणम् ; किन्तु द्वैगुण्यनिरूपितकालप्राप्तौ द्रव्यादीनामपि तस्य याज्ञवल्क्यवचनेनैव ऋणिधनिनोरात्यन्तिकखत्वनिवृत्तिवत्वोत्पत्तिकारणत्वावगमात् । न च मनुवचनविरोधः, तस्योककालभोग्याधिविषयत्वेनाप्युपपत्तेः । यत्तु वृहस्पतिना दशाहप्रतीक्षणमुक्रम,
"पूर्णावधौ सान्तलाभे बन्धखामी धनौ भवेत् ।
अनिर्गते दशाहे तु ऋणौ मोक्षितुमर्हति”-इति । तवस्त्रादिविषयम् । हिरण्ये द्विगुणीभूते,-दति व्यासेन विशेषोपादानात् । यत्पुनस्तेनैवोक्रम्,
“गोप्याधिर्दिगुणादूधं कृतकालस्तथाऽवधेः ।
श्रावेदयेदृणिकुले भोकयस्तदनन्तरम्” इति । तद्भोगमात्रविधिपरम्, न पुनः स्वत्वापत्तिपरम्। यदा तु मान्तलाभे धने बन्धस्य तथैवावस्थितस्य मोचनात् प्राग्रणिकस्य मरणादिर्भवेत्, तदा कि कार्यमित्यपेचितमाह वृहस्पतिः,
For Private And Personal Use Only